पृष्ठम्:करणकुतूहलम्.djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (२१) मन्दोच्चानि। मं. बृ. श. २ १८ malo oo शु. २ २१ २२ २८ ñ oo Home O VOO ० ३० o ० अथ शीघ्रफलोपयुक्तान्पराख्यान् शीघ्रोच्चानुपजा- त्याह- कुकुञ्जरा वेदकृतास्त्रिदस्राः सप्ताहयो विश्वमिताः पराख्याः। भौमादिकानामथमध्यमोऽर्कः शीघ्रोच्च- मिज्यारशनैश्चराणाम् ॥२॥ एकाशीतिः ८१ चतुश्चत्वारिंशत् ४४ त्रयोविंशतिः २३ सप्ताशीतिः ८७ त्रयोदश १३ परमाः क्रमेण भौमादीनां पराख्याः एते भौमादीनां परमफलानि जीवारूपाणि एतेषां धनूंषि परमशीघ्रफलानि तद्यथा भौमस्य ४२ । ४० बुधस्य १।३४।४० गुरोः १ । ० शुक्रस्य ४।६।५० शनेः ६।११।५ अथ ग्रहाणां शीघोच्चं कथयति-बुधशीघ्रोच्चं शुक्रस्य च मध्यमाधिकारे प्रोक्तम्, अन्येषां गुरुभौमशनीनां मध्यमोऽर्कः शीघ्रोच्चं ज्ञेयम् ॥ २ ॥ अथ मन्दकेन्दशीघ्रकेन्द्रपदधनर्णसंज्ञामुपजात्याह- ग्रहोनमुच्चं मृदु चञ्चलं च केन्द्रे भवेतां मृदुचञ्च- लाख्ये । त्रिभिस्त्रिभिर्भैः पदमत्र कल्प्यं स्वर्णं फलं मेषतुलादिकेन्द्रे ॥३॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri