पृष्ठम्:करणकुतूहलम्.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२२) करणकुतूहलम् । देशान्तराब्दबीजविशुद्धेन ग्रहेण हीनं मृदूच्चं मन्दोच्चं चलमुच्चं शीघ्रोच्चं क्रमान्मन्दकेन्द्रं शीघ्रकेन्द्रं स्यात्, तथा च द्वादशराशीनां पदचतुष्टयं भवति तेषां प्रथमतृतीययोर्विषम- संज्ञा द्वितीयचतुर्थयोः समसंज्ञा, अथ मेषादिषट्कगते केन्द्रे फलं मध्यमग्रहे मन्दस्पष्टे च धनं तुलादिकेन्द्रे ऋणम् ॥३॥ अथ भुजकोटीनुपजात्याह- ब्यूनं भुजः स्याच्यधिकेन हीनं भार्द्धं च भार्द्धा- दधिकं विभार्द्धम्। नवाधिकेनोनितमर्कभं च भवेच्च कोटिस्त्रिगृहं भुजोनम् ॥ ४॥ राशित्रयादूनं यदि केन्द्रं तदा स एव भुजः स्यात् यदि राशित्रयादूर्ध्वं केन्द्रं तर्हि तेन हीनं राशिषट्कं भुजः राशिष- ट्कादधिकं केन्द्रं विभार्द्धं राशिषट्कहीनं भुजः स्यात् नवरा- श्यधिकेन केन्द्रेण हीना द्वादशराशयः भुजः अथ भुजेन हीनं राशित्रयं कोटिः स्यात् ॥ ४ ॥

अथ भौममन्दोच्चपराख्ययोः स्फुटीकरणं वज्रयाह- भीमाशुकेन्द्रे पदयातगम्यस्वल्पस्य लिप्ताः खखवेद ४०० भक्ताः । लब्धांशकैः कर्कमृगादि- केन्द्रे हीनान्वितं स्पष्टमसृग्मृदूच्चम् ॥६॥ लब्धां- शकानां त्रिलवेन हीनःस्पष्टःपरः स्यात्क्षितिनन्दनस्य। भौमस्य शीघ्रकेन्द्रं कृत्वेति मन्दस्पष्टात्तु यत् शीघ्रकेन्द्रं कृत्वेतितद्वाह्यम युक्तं सिद्धान्तशिरोमणौ मन्दस्फुटोऽस्मा- CC-