पृष्ठम्:करणकुतूहलम्.djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् । (२५) निघ्नो नख २० हृत्तदूनं युक्तं गतैष्यैक्यदलं स्फुटं स्यात्क्रमो- त्कमज्याकरणेऽत्र भोग्यम्” ॥ यथा चतुर्विशत्यंशानां २४ ज्यायां साध्यमानायां दशाप्ता लब्धं २ शेषं ४ गतखण्डं २० भोग्यखण्डं १९ अनयोरैक्यात् ३९ अर्द्ध १९ । ३० क्रमज्यात्वादूनितं १९ । १८ स्फुटं भोग्यखण्डं जातं ततो भोग्यनिघ्नाः शेषांशका इत्यादि कर्म स्फुटं भोग्य- खण्डेन कार्यमिति कृते जाता ज्या ४८ । ४३ इयं परमक्रान्तिज्या ज्ञेया, अथ धनुःकरणे भोग्यखण्डस्फुटी- करणं सिद्धान्ताद्यथा-"विशोध्य खण्डान्यथ शेषकार्द्धनििघ्नं गतैष्यान्तरमेष्यभक्तम्।फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ” इत्यादिना गतैष्ययोरन्तरम् १ शेषांशैः४ गुणितम् ४ नखैः २० भक्तम् ।।१२ अनेन भक्तं 'फलोनयु- ग्मोग्यगतैष्यखण्डं चापार्थमेवं स्फुटनोग्यखण्डम् ॥यथा जिनां शज्यायां ४८।४३ धनुःकरणे विशोध्य खण्डानि २१।२० शेषम् ७।४३ अस्यार्द्धेन ३।५२ गतैष्यान्तरम् १ गुणितम् ३।५२ गम्येन १९ भाजितम् ०।१२ लब्धेन गतैष्यार्द्धम् १९।३० क्रमधनुःकरणत्वादूनम् १९।१८ स्फुटभोग्यखण्डं जातम्, अशुद्धलब्धमित्ययं विधिरनेन कार्यः जातं धनुः २४ इत्यन्यच्च सूक्ष्मतामिच्छता विधेयम् ॥ ८॥ अथ सूर्यादीनां मन्दफलानयनमिन्द्रवज्रोपजा- तिभ्यामाह- सूर्यादिकानां मृदुकेन्द्रदोर्ज्या दिग्घ्नी विभाज्याथ खपञ्चवाणैः। नागाग्निदगस्त्रैर्गिरिपूर्णचन्द्रैर्वस्वङ्कभूभि- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri