पृष्ठम्:करणकुतूहलम्.djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२६) करणकुतूहलम्। र्वसुनेत्रनेत्रैः ॥९॥ युगाष्टशैलैर्मुनिपञ्चचन्द्रः फलं लवाः केन्द्रवशार्द्धनर्णम् । कार्य ग्रहे सूर्यविधू स्फुटौ स्तो मन्दस्फुटाख्या इतरे स्युरेवम् ॥१०॥ सूर्येति । सूर्यादीनां मन्दकेन्द्रस्य भुजः कार्यः स्वस्यांशमि- तेर्दशाप्तमित्यनेन ज्या कार्या सा दिग्घ्नी दशगुणा सा सूर्यस्य सम्बन्धिनी चेत्तदा खपञ्चबाणैः ५५० सार्द्धपञ्चशतैर्भाज्या लब्धमंशादिफलम् ११३४।३२ अनेन संस्कृतो मध्यमोऽर्कः १।१।३३।२६ जातो मन्दफलसंस्कृतः सूर्यः १।३।७।५८ अस्माज्जातं चरमृणम् ८६ अनेन संस्कृतः स्पष्टोऽर्कः- १।३।६।३२ सा ज्या चेच्चन्द्रस्य तर्हि नागाग्निदतैरष्टत्रिंशदु- तरद्विशत्या २३८ भाज्या लब्धमंशादिफलं स्यात्, भौमस्य गिरिपूर्णचन्द्रैः सप्तोत्तरशतेन १०७ भाज्या, बुधस्य वस्वङ्क- भूभिर्द्युनद्विशत्या १९८, गुरोर्वसुनेत्रनेत्रैरष्टाविंशत्युत्तरद्विशत्या २२८, शुक्रस्य युगाष्टशैलैश्चतुरशीत्युत्तरसप्तशत्या ७८४, शनर्मुनिपञ्चचन्द्रैः सप्तपञ्चाशदुत्तरशतेन १५७, एतदंशादि- फलं केन्द्रवशार्द्धनर्णं कार्यं मेषतुलादिकेन्द्रे क्रमाद्धनर्णं मध्य- ग्रहे कार्यम्,एवं कृते रविचन्द्रौ स्फुटौ भवतः, इतरे भौमादयो मन्दस्फुटा भवन्तीत्यर्थः । अथैषां परमं मन्दफलं कलादि रवेः १३०।५०, चन्द्रस्य ३०२।३१,भौमस्य६७२।५४,बुधस्य ३६२।१०, गुरोः३१५।४३, शुक्रस्य ११०।०, शनेः ४५८।३३ इति ॥ १० ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri