पृष्ठम्:करणकुतूहलम्.djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (२७) अथमध्यमार्कोदयिकास्तेषां स्फुटोदयिककरणाय कर्मोपजात्यर्द्धेनााह- भानोःफलं भै२७विहृतं च चन्द्रे मध्ये विधेयं रविवद्धनर्णम् । भानोरिति । ज्यायाः खपञ्चबाणैः ५५० लब्धं भानोः फलं जैः सप्तविंशतिभिर्भक्तं फलमंशादि मध्यमचन्द्रे धनर्णं कार्यम्, रविफलं रवौ यदि धनं स्यात्तदा मध्यमचन्द्रे धनं कार्यम् ऋणं चेत्तदा ऋणमेव कार्यम् ततश्चन्द्रः स्पष्टो विधेयः अन्येषां स्वल्पान्तरत्वान्न कृतम् ॥ अथ सूर्यादीनांगतर्मन्दफलमुपजात्यर्द्धेनेन्द्रवज्रया चाह- स्वभोग्यखण्डं नव ९ त्दृत्खरांशोर्विश्वा १३ हतं वेद ४ हृतं हिमांशोः ॥ ११ ॥ द्विघ्नं नगा ७ प्तं कुजसौम्ययोश्च खाक्षै ५० रिनैः १२ खार्क १२ मितैश्च भक्तम् । जीवादिकानां च गतेः फलं तत्स्वर्णं क्रमात्कर्कमृगादिकेन्द्रे ॥१२॥ यस्य ग्रहस्य मुक्तिफलं साध्यं तस्य भुजज्याकरणे यो- ग्यखण्डं तत्सूर्यसम्बन्धि चेत्तदा नव९ भिर्भाज्यं लब्धं कला- दिकं ग्राह्यं तत्सूर्यगतिफलं स्यात्, एवं चंद्रस्य स्वभोग्यखण्डं विश्वै १३ र्गुणितं वेदैर्भक्तं लब्धं चंद्रस्य गतिफलं स्यात्, अथ द्वाश्यां २ गुणितं सप्तभि ७ र्भक्तं कुजस्य गतिफलं स्यात्, एवं बुधस्य च केवलम्, गुरोः स्वभोग्यखण्डं खाक्षैः पश्चाशद्भिः ५० भक्तं लब्धं गुरोर्गतिफलं स्यात्, एवं शुक्र- स्य स्वभोग्यखण्डमिनैर्द्वादशभि१२ भक्तं भृगुगतिफलं स्यात्, CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri