(२८) करणकुतूहलम्। शनेः स्वभोग्यखण्डं खार्कमितै १२० र्भक्तं शनिगतिफलं स्यात् एवं स्वस्वगतिफलं स्वस्वमध्यगतौ कर्कादिमंदकेन्द्रे सति धनं कार्यम्, मकरादिकेन्द्रे त्वृणं कार्यम्, एवं कृते रवि- चन्द्रयोः स्फुटा गतिर्भवति, भौमादिकानां तु मन्दस्फुटाख्या स्यात् ॥१२॥ अथ भौमादीनां शीघ्रफलानयनं शार्दूलविक्रीडिते. नाह- कोटिज्या चलकेन्द्रजा परगुणा द्विघ्नी तयोनान्विता केन्द्रे कर्कमृगादिके परकृतिः खानाभभ्राब्धििशकै १४ ४००र्युता । तन्मूलं श्रवणः परेण गुणिता दो- र्ज्याथ कर्णोद्धृता तच्चायं चपलं फलं धनमृणं मन्दस्फुटे स्यात्स्फुटः॥१३॥ मन्दस्फुटं शीघ्रोच्चाद्विशोध्य यच्छेषं तच्छीघ्रकेन्द्रं भवति तस्य कोटिः साध्या तस्याश्च ज्या साध्या सा स्वकीयेन पराख्येण गुण्या सैव पुनर्द्वाभ्यां २ गुणिताधः स्थाप्या षष्टि- भक्ता फलेनान्विता कार्या, अथ परस्य कृतिस्तेनैवांकेन तस्यै- वांकस्य गुणनं कृतिः सा परस्य कृतिः खाभ्राब्धिशक्रैश्चतुः- शताधिकचतुर्दशसहस्र १४४०० र्युताः कार्या एतादृशा परकृतिः कर्कादिशीघकेन्द्रे सति परगुणा द्विस्था कोटिज्या हीना कार्या तस्येदम्मूलम् “त्यक्त्वान्त्याद्विषमात्” इति लीलावत्युक्तविधिना कृतश्रवणः कर्णसंज्ञकों को बोद्धव्यः, अथ शीघ्रकेन्द्रस्य दोर्ज्यां पराख्येण गुणिता कर्णसंज्ञकेन . CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/३३
एतत् पृष्ठम् परिष्कृतम् अस्ति