पृष्ठम्:करणकुतूहलम्.djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (२९) भक्ता लब्धस्य चापं धनुः विशोध्य खण्डानीत्यनेन कार्यं तदेव धनुः चञ्चलं शीघ्रफलं तत्फलं मन्दस्फुटे ग्रहे धनमृणं कार्य मेषतुलादिकेन्द्रवशात्, मेषादिकेन्द्रे धनं तुलादिकेन्द्रे ऋणं तदा ग्रहः स्फुटः स्यात् ॥ १३ ॥ अथास्याप्यतिस्फुटत्वज्ञानं भौमस्य विशेषं चोपजात्याह- तदुत्थमाद्येन चलेन मध्यश्चेत्संस्कृतःस्पष्टतर- स्तदा स्यात् । दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत्कुजस्तु ॥ १४ ॥ तदुत्थेति । यत्स्फुटो जातस्तस्मादुत्थं तदुत्थं तेन तदुत्थेन मान्देन पुनस्तदुत्थचलेन चेन्मध्यमः संस्क्रियते तदासौ स्पष्टतरः स्यात् तदुक्तं भवति यः स्पष्टः कृतः स एव मध्यमः परिकप्यः तस्मात्प्रागुक्तप्रकारेण मन्दफलं संसाध्य मध्यमे संस्कार्यमित्यनयैव रीत्या स्पष्टतरः स्यात्, एवमसकद्यावत स्थिरः स्यात्, भौमस्य तु विशेषः प्रथमं मन्दफलेन दलीकृतेन शीघ्रफलेन दलीकतेन चैवं दलीकताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यां सम्पूर्णाभ्यामिति यस्तु दलीकृतमन्दफलाभ्यां संस्कृतस्तस्मान्मान्दं सकलं मध्यमे संस्कार्यं तस्माच्छीघ्रं संसाध्य तस्मिन्नेव सकलं शीघं संस्कुर्यात् इति पुनः पुनर्दली- कृताभ्यां ततोऽखिलाभ्यां संपूर्णाभ्यामिति, यस्तु दलीकृताभ्यां संस्कृतस्तन्मान्दं सकलं मध्यमे संस्कार्यं तस्माच्छैघ्र्यं संसाध्यं तस्मिन्नेव सकलं शैघ्र्यं संस्कुर्यादिति पुनः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri