पृष्ठम्:करणकुतूहलम्.djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३४) करणकुतूहलम् । अथोन्मण्डलस्थानां ग्रहाणां स्वक्षितिजस्यासन्नकर- णाय चरकर्म प्रोक्तं तदक्षप्रभाक्षसाध्यं तेन तद्वयमपि मालिनीद्वयेनाह- अयनलवदिनैः प्राङ्मेषसंक्रान्तिकालाद्भवति दिवसमध्ये याक्षभाक्षप्रभा सा । दश १० गज ८ दश १० निघ्नी साक्षभान्त्या विभक्ता प्रतिगृहचर- खण्डान्यायनांशाढ्यभानोः ॥ १९ ॥भुजगृहमि- तयोगो भोग्यखण्डांशघातात्वगुणलवयुगस्वं स्वं चरं गोलयोः स्यात् । चरपलगतिघातः षष्टिभक्तो विलिप्ताः स्वमृणमुदयकाले व्यस्तमस्तग्रहेषु ॥२०॥ अयनेति । अयनांशोत्पन्नदिनैर्मेषसंक्रमपूर्वतो यद्दिनं तस्य मध्याह्ने द्वादशांगुलशंकोर्या छाया साक्षप्रभा स्यात्, अथाय- नांशोत्थदिनानयनम्, अयनांशाः स्वद्विचत्वारिंशदंशेन हीनाः क्रियन्ते अयनदिनानि भवन्ति,अथ सूर्यस्य मेषादौ गतिःतस्मिन् ५९।८ अयनांशाः संगुण्य षष्टया विभजेल्लब्धमयनदिनानि मध्यन्दिने मध्याह्नसमये द्वादशांगुलशंकोर्या छाया साक्षप्रभा भवति साक्षप्रभा स्थानत्रयस्थिता दशभिरष्टभिर्दश- भिश्च क्रमेण गुणिता ततोऽन्त्या या दशगुणा सा त्रिनिर्भक्ता त्रीणि चरखण्डानि भवन्ति एतावन्ति चरखण्डानि यावदष्टां- गुलाक्षभा तावत्समीचीनानि ततः परं सान्तराणीति विचार्य ततोऽयनांशैर्युक्तस्य सूर्यस्य स्फुटार्कस्य भुजः कार्यस्तद्भुज- राशिसमसंख्यचरखण्डयोगो विधेयः एवं जातं चरं सौम्यगोले भवति CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri