पृष्ठम्:करणकुतूहलम्.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (३७) इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धि- वल्लभे नभःसदां स्फुटक्रिया ॥२॥ अर्कोनचन्द्रस्यांशा द्विस्था एकत्र रवि१२हृता अपरत्र षड् ६ हृता द्वादशाप्ता इता गताः शुक्लपक्षप्रतिपदादितस्तिथयःद्वाद- शभिरंशेरका तिथिः।उक्तं च-"अर्काद्विनिःसृतःप्राचीं यद्यात्य- पहरञ्छशी।तच्चन्द्रमानमंशैस्तुज्ञेया द्वादशभिःस्थितिः” इति । षडाप्ता एकरहिता निगदितकरणानि तानि बवाद्ववनामकरणात शुक्लपक्षप्रतिपदुत्तरार्द्धाद्भवति कृष्णचतुर्दश्युत्तरार्द्धाच्छकुनादि चतुष्टयं भवति, उक्तं च चतुर्दश्यन्त्यादर्द्धादि शकुनादि चतुष्टयं शकुनिचतुष्पदनागकिंस्तुघ्नं प्रथमे प्रतिपत्तिथ्यर्द्धवादिति, ग्रहकला इति यस्य ग्रहस्य नक्षत्रं जिज्ञासितं भवति तस्य कला अष्टशतैः८०० भाज्याः लब्धसमान्यश्विनीतो गतनक्षत्राणि, चन्द्रार्कयोगस्य कला अष्टशतैः ८०० भक्ता लब्धसमा योगा गता विष्कुम्भादयः, अथ सर्वत्र भक्तादवशिष्टं तद्गतं तदेव गतं स्वहरात्पतितं गम्यं भवति गतगम्ययोः विकलाः स्वभुक्त्या भक्ता गता गम्याश्च घटिका भवन्ति,यदि कलीकृतया भाज्यंते गम्यया प्रतिविकलया भाज्या लब्धा मता गम्याश्च घटिका अवन्तीति विशेषः, यथा सूर्यभुक्त्यूनयाप्तास्तिथिकरण- घट्यस्तथा तस्यैव गत्याप्ता नक्षत्रघटिका रविचन्द्रयोगाप्ता योगघटिकाः, यथा रविणा १।३।६।१२ चन्द्रः ।।८।४७) २१ ऊनः ११।५ः१४१।९अस्यांशाः ३३५।४१।९ द्वादश- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri