पृष्ठम्:करणकुतूहलम्.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(४०) करणकुतूहलम् । ५।४८ प्राग्वद्भक्तं लब्धं गम्यं घटिकादि ४५। ५५ ॥ अथ ग्रहाणां भूमेरुपरिस्थितियोजनानि सूर्यस्य ६८९३७७ चन्द्रस्य ५१५६६१ भौमस्य १२९६६१८ बुधस्य १६ ६०३१ गुरोः ८१७६५३७ शुक्रस्य ४२०४०८ शनेः २०३१९०६८ नक्षत्रस्य ४१३६२६६७ ध्रुवस्य ८२ ७२५३१५ करणविवृतौ स्फुटतादिखटानाम् ॥२१॥२२॥ इति श्रीकरणकुतूहलवृत्तौ स्पष्टाधिकारो द्वितीयःसमाप्तः॥२॥ अथ त्रिप्रश्नाधिकारी व्याख्यायते, त्रिभिः प्रकारैः प्रश्नकथनं यस्मिन्स त्रिप्रश्नः के ते त्रिप्रकाराः दिग्देश- कालस्त्रयः प्रश्नाचक्र इष्टच्छायाद्यास्तेषां परिज्ञानमिति. तत्रादौ लंकादेशीयस्वदेशीयमेषादिलग्नपरिमाणमुप- जातिजातकचतुष्कणाह- लंकोदया नागतुरंगदस्रा गोंऽकाश्विनो रामरदा विनाड्यः । क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैःक्रमो- क्रमस्थैश्च विहीनयुक्ताः ॥ १॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः । तात्कालिकोऽर्कोऽयनभागयुक्त- स्तद्भोग्यभागैरुदयो हतः स्वः॥२॥ खाग्न्युद्धृतस्तं रविभोग्यकालं विशोधयेदिष्टघटीप- लेभ्यः। तदग्रतोराश्युदयांश्च शेषमशुद्धत्दृत्खाग्नि- गुणं लवाद्यम् ॥ ३॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri