पृष्ठम्:करणकुतूहलम्.djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

16 - (४२) करणकुतूहलम् । इत्यनेनोदयाद्ता गम्या वा घट्यः सावना ग्राह्याः, यदा ग्रा- ह्यास्तदोदयासुभिः सूर्यभुक्तिर्गुण्या राशिकलाभि १८०० र्भाजिता यदा स्वरूपे लब्धं तत्सहिता षष्टिर्हर इत्यर्था- दवगन्तव्यम्, अथ लग्नार्थं तात्कालिकसूर्यकरणे विशेषः यदीष्टाः सावना घटिकास्तदा तात्कालिकत्वं कार्यं यदार्क्ष्य तदा नेत्यर्थः। उक्तं च गोलाध्याये- लग्नार्थमिष्टघटिका यदि सावनास्तास्तात्कालिकार्ककरणेन भवेयुरार्क्ष्याः । आयो- दया. हि सदृशीभ्य इहापनेयास्तात्कालिकत्वमथ न क्रियते यदार्क्ष्यः॥१॥” अथ प्रकृतं भोग्याल्पकाल इति यद्यल्पेष्टकालस्तदैत- दुक्तम्भवति-यदीष्टकालपलेक्ष्योऽर्कस्य भोग्यं न शुद्धयति तस्मिन्निष्टकाले खगुणाहते त्रिंशद्भिर्गुणिते सति तत्स्वोदये- नाप्तमंशाद्यं तद्युतोऽयनांशहीनोऽर्को लग्नं भवति, यथेष्टघटयः ११ आभिः सूर्यस्पष्टा गतिः ५७ । २८ गुणिता ६३२ । ८ षष्ट्या ६० भक्तं लब्धं कलादि १० । ३२ अनेनौदयि- कोऽर्कः १ । ३।६। १२ युक्तः १ । ३ । १६ । ४४ इष्टकाले जातस्तात्कालिकोऽर्कः १।३।१६। ४४ अ- यनांशः १८ । १६ । १० युक्तः १ । २१ । ३२ । ५४ अस्य भागास्त्रिंशद्भयः ३० शुद्धा जाता भोग्यांशाः ८।२७ । ६ स्वोदयो वृषस्तस्य पलानि २५५ भोग्यांशैर्गुणितानि २१ ५५।१०।३० खाग्निभक्ते लब्धं रविभोग्यकालः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri