पृष्ठम्:करणकुतूहलम्.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (४३) ७१ इष्टघटी ११ पलेषु ६६० शुद्धः शेषम् ५८९ तदग्नि- मराशेर्मिथुनस्य पलानि ३०५शुद्धानि शेषम् २८४ त्रिंशद्गु- णम् ८५२० अशुद्धकर्कराशिपलैः ३४१ भक्तं लब्धमंशा- दि २४ । ५९ । अशुद्धः कर्कस्तस्य पूर्व मिथुनस्तेन युतं राश्यादि ३ । २४ । ५९ । ७ अयनांशैर्हीनम् ३ । ६ । ४२ । ५७ जातं लग्नम्, अथाल्पेष्टकाले कल्पितमिष्टम् १ । ० एतत्समयकः सूर्यः १ । २१। २३ । २२ भोग्य- कालः ७३ इष्टकालपलेभ्यो ६० न शुध्यति तदा भोग्याल्प- कालः ६० खगुणा ३० हतः १८०० स्वीयोदयपलैर्वृषपलैः २२५ अक्तः लब्धमंशादि ७। ३।३१ । सूर्यः १ । २१ । २३ । २२ लब्धभागैर्युतः १ । २८ । २६ । ५३ अयनांशैः १८ । १६ । १० हीनं जातमल्पेष्टकाललग्नम् १।१०।१०। ४३ ॥४॥ अथ लग्नादिष्टकालानयनं जातकद्वयेनाह- अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाब्यः समयो विलग्नात् । यदैकमे लग्नरवी तदैतद्भागान्तरघ्नोदय खाग्निभक्तः ॥५॥ स्यादिष्टकालो यदि लग्नमूनं शोध्यो धुरात्रादथवा रजन्याः । रात्रीष्टकाले तु सषङ्गसूर्याल्लघ्नं ततोऽयुक्तवदिष्टकालः॥६॥ अर्कस्येति-तद्भोग्यभागैरुदयो हतः स्व इत्यादिनानीतो रविभोग्यकालस्तथा सायनलग्नभुक्तांशैर्लग्नोदयो हतः खा- - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri