पृष्ठम्:करणकुतूहलम्.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

7 (४४) करणकुतूहलम् । ग्न्युद्धृतो लग्मभुक्तकालः अनयोर्योगः अर्कयुतराशेर्लग्नपर्यन्तं ये मध्यस्था उदयास्तैर्युतः एवं कृते लग्नादिष्टकालः स्यात् यथा लग्नं ३।६।४२ । ५७ सायन ३ । २४ । ५९ । ७ मस्य भुक्तभागैः २४ । ५९ । ७ स्वोदयकर्कपलानि ३४१ गुणितानि ८५१९ । ५८ । ४७ त्रिंशद्भक्ते लब्धं तनुभुक्त- कालः २८३ अर्कोग्य ७१ तनुभुक्तयोर्योगः ३५४ रवि- लग्नमध्ये मिथुनं तस्य पलैर्युतः ६५९ षष्टया भक्ते लब्ध- घटिकाः १० । ५९ शेषत्यागात्पलोन एवमिष्टकालो जातः , यदैका इति यदा लग्नरवी एकराशिस्थितौ तदा तयोरंशविवरेणोदयो गुणितः खाग्निभक्तः आप्तोऽभीष्टकालः; यदैकराशौ सूर्याल्लग्नमूनं भवति तदा द्युरात्रादिति पष्टिघटिकाभ्यः शोध्यः सूर्योदयात्कालः स्यादिति घटिका भवन्ति, अथवा रजन्याः शोध्यः इति माना- च्छोध्यः स सूर्यास्तादिष्टघटिका इति रात्रिगतघटिका भवन्ति, यथा सायनं लग्नम् १ । २८ । २६ । ५३ साय- नोऽर्कः १।११। २३ । २२ अनयोरन्तरमधिकादूनः पात्य इत्यर्थः। अन्तरम् १७ । ३ । ३१ उदयस्पष्टवृषपलै- २५५र्गुणितम् १७९९।५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि ५९अत्र लग्नमधिकन्तेनायमेवेष्टकालः, यदा प्रष्टुःसावनघटिका इष्टास्तदा तात्कालिकोऽर्कस्तदा तात्कालिकोऽर्कोऽसकत्कर्त- व्यः,यदाा इष्टास्तदौदयिकः सूर्यःसकृत् कालेन साध्यः,उक्तं

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri