पृष्ठम्:करणकुतूहलम्.djvu/५

एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका ।

श्रीभास्कराचार्यः।

 सह्यकुलाद्रेरासन्ने भूभागे विज्जडविडसंज्ञके नगरे गणककुलावतंसान्महेश्वरा-चार्याद्रसगुणपूर्णमहीप्रमिते शालिवाहनशकेऽसौ जन्म लेभे। अनेन षट्त्रिंशद्वर्षात्मके वयसि पाटीबीजगणितगोलसंज्ञकैश्चतुर्भिरध्यायैर्विभक्तः "सिद्धान्तशिरोमणिनामा' ब्रह्मसिद्धान्तरहस्यभूतः सिद्धान्तो विरचितः । सर्वत्र भारते वर्षे सिद्धान्ततत्त्वं जिज्ञासुभिर्लोकैः प्रथममयमेव पठ्यते एतद्गन्थोपरि नानाविधाष्ठीकाष्टिप्यण्यः प्राचीना अर्वाचीनाश्च वर्तन्ते । अथानेमाचार्येणैकोनसप्तत्यात्मके वयसि लोकोपकारार्थ ब्रह्मसिद्धान्ततुल्यफलं "करणकुतूहलनामक” करणं निर्मितम् । अत्र ज्याचापकर्म विनैव छायासाधनं कृतम् । तथा चोक्तम्-

 "इति कृतं लघुकार्मुकशिञ्जिनी ग्रहणकर्म विना द्युतिसाधनम् " । समस्याभूतया प्रोक्तदिशैव गणेशदैवज्ञेन सकलं स्वकरणं ज्याचापकर्मरहितं विहितम् । यद्यपि तत्र कुत्रचिज्जयाचापकर्मपरित्यागेन गौरवं स्थौल्यं चापतितं तथापि ग्रन्थान्तं यावत्स्वप्रतिज्ञानिर्वाहार्थमेव यतितम् । अत एव ग्रन्थान्ते-

"पूर्व प्रौढतराः कचित्किमपि यच्चक्रुर्द्धनुज्र्ये विना
ते तेनैव महातिगर्वकुमृदुच्छृङ्गेऽधिरोहन्ति च ।
सिद्धान्तोक्तमिहाखिलं लघुकृतं हित्वा धनुर्ज्ये मया,
तद्गों मयि मास्तु किन्न यदहं तच्छास्त्रतो वृद्धधीः " ।।

 इत्याद्यात्मनः प्रशंसा कृता । एतत्करणानुसारं साम्प्रतमपि जोधपुरादिप्रान्ते तिथिपत्राणि निर्णीयन्ते । परं तानि चण्डबीजदानेन सम्प्रति मूलग्रन्थाद्भिद्यन्ते । अस्योपर्युदाहरणद्वयं वर्तते । तत्रैकं सुप्रसिद्धविश्वनाथगणककृतम् । द्वितीयं सुमतिहर्षगणिनिर्मितम् । एतदेव विरलपचारत्वात्प्राञ्जलत्वाच्चास्माभिर्मूलेन सह योजितम् । अनेन पञ्चसप्तत्युत्तरषोडश-शततमे विक्रमवत्सरे टीका कृता । अयमेव कालष्टीका कर्तुः ।विशेषष्टीकाद्यन्त-श्लोकेभ्योऽवधार्यः ।

 ग्रन्थोऽयं सटीको यथामति संशोध्य "भारतवर्षालङ्कारेभ्यः" श्रेष्ठिवंशावतंसेभ्यः श्रीकृष्णदासतनयश्रीखेमराजमहाशयेभ्यः समर्पितो लोकोपकारी भवत्विति परमे श्वरं प्रार्थयते।

पुरोहितोपाख्य-माधवशास्त्री।

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri