पृष्ठम्:करणकुतूहलम्.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(४८) करणकुतूहलम् । शाधिकं दिनदलात्पतितं स हरस्तदा। प्रथमखण्ड- त्दृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥९॥दशयुतं पलकर्णहतं त्दृतिर्हरहता श्रवणोऽङ्गु- लपूर्वकः । रवियुतोनितकर्णहतेः पदं द्युतिरिनद्यु- तिवर्गयुतेः श्रुतिः ॥ १० ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिदं खखनन्दहतं हरात्खविषयैरवशेषविवर्जितैः॥११॥ फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदो- न्नतम् । इति कृतं लघु कार्मुकशिञ्जिनीग्रहणकर्म विना द्युतिसाधनम् ॥ १२॥ दिनार्द्धं विशरं पञ्चरहितं खहरो मध्याह्नकालीनो हरः स्यात् । अथ नतकृतिः नतेनैव गुणितन्नतं नतकतिर्भवति सां पृथक् द्विधा स्थाप्या, एकत्राभ्रशरैराहता पञ्चाशद्भिर्गुणनीया ततः खखनवभिर्नवशतैर्युक्तया द्वितीयस्थानस्थितया नतकृत्या भाज्या लब्धं मध्याह्नकालीनहरात्पातयेत् शेषमिष्टकालिको हरः स्यात्, यथा दिनार्द्धम् १६ । २६ पञ्च ५ हीनम् ११ २६ खहरोऽयम्, अथ नतस्य ५ । २६ गोमूत्रिकया नते- नैव गुणनं नतकृतिः २९ । ३१ पृथक् २९ । ३१ एकत्राभ्र- शरैः ५० गुणिता १४७५ । ५० अपरत्र खनवत्या ९०० युक्तया नतकृत्या ९२९ । ३१ भक्ता सवर्णितया ५५७७१ सवर्णितौ ८८५६ लब्धं घट्यादि १ । ३५ खहरतः ११ । CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri