पृष्ठम्:करणकुतूहलम्.djvu/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(५०) करणकुतूहलम् । छायात इष्टसमयज्ञानम्, इनद्युतिः श्रुतिविभक्त इति फलपद- मिति इनो द्वादश १२ द्युतिश्छाया तयोर्वर्गयोगस्तस्य मूलं कर्णः श्रुतिः शेषा व्याख्या सुगमा ॥ उदाहरणम्, इन १२ वर्गः १४४ छायावर्गः ५४ । ३० अनयोर्योगस्य मूलम् १४ । ७ कर्णः, अनेन हृतिः पूर्वागता १३८ । ३२ भक्ता ९। ४९ इष्टहरः ९ । ४९ खहरात्पतितः १ । ३७ इद- मवशेषसंज्ञकं पृथकू खखनन्दैः ९०० गुणितं १४५५।० इदं द्वितीयस्थानस्थितेनावशेषेण १।३७ हीनैः खविषयैः५० जातैः ४८।२३ भक्तं लब्धस्य ३०।४ मूलं ५।२६ नतं जातं पूर्वागतसमानम् ५। २६ चेत्स्वल्पान्तरं तदा स्वल्पान्तर- त्वान्न दोष एवं नतं ५।२६ दिनार्द्धात् १६।२६ शुद्धञ्जा- तमिष्टकालः११।१०अथेष्टहारेण हीनस्य खहरस्य यदि शेषकं दिगधिकं दशभ्योऽधिकं स्यात्तदा हर एव नतं स्यात्, यथे- ष्टहरण ० । २६ खहरो ११।२६ हीनः १११० शेषकस्य दशाधिकत्वादिष्टहर एव०।२६ उन्नतम्, अनेन हीनं दिना- र्द्धम् १६ नततामितिकृतः लघु इत्यमुना प्रकारेण कार्मुकधनुः शिञ्जिनी तयोर्ग्यहकर्मसाधनप्रकारस्तेन विना लघुशीघ्रमिति स्वल्पकर्मणा छायासाधनं कृतमित्यर्थः ॥१२॥ अथ विषुववृत्ताद्दक्षिणतःउत्तरतश्च यैरंशैः राशिप्रचार- मार्गास्तेषामंशानां क्रान्त्यंशसंज्ञां तत्परिज्ञानमिन्द्र- वज्राद्वयेनाह- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri