पृष्ठम्:करणकुतूहलम्.djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

करणकुतूहलम् । (५६) रविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राक्कपालस्थे चन्द्रे गतिफले ऋणे भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः । एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः पृथङ्गतं विधाय कर्तव्यम्, उक्तं च, इदं ग्रहाणां नतकर्म युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेक- त्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानत- क्रमं सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्,खशरभानु- भुव इत्यङ्कानयनं क्रमज्ययोत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य मते तदेव सम्मतम्, यत्कैश्चिद्वलननतदृक्कर्म उत्क्रमज्यया कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात् सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् १६।४९इष्ट- घटी पूर्णिमाघटी ११॥५१ उपयोरन्तरम् ४।७७ प्राङ्गतमु- न्नतम् २५।३ सूर्यस्य नतार्थं रात्रिशेष गते वा भवति समये चेज्जन्म तत्तद्घटीभिः संयुक्ते वासरार्द्धे खलु नतघटिकाः प्राक्- प्रतीच्यो भवेयुरिति सूर्यस्य २५।३ पश्चिमेऽर्थाच्चन्द्रो- न्नतमेव सूर्यस्य नतम्, नतेन ४।५७ हीनाः खगुणाः २५।३ नतेनैव ४।५७ गुणिताः १२४।० सूर्यन- तेन २५ । ३ त्रिंशद्धीनाः ४ ॥५७ सूर्यनतेनैव गुणिता १२ ४ । ० एवमेभिः खशरभानुभुवः ११२५० भक्ता लब्धमं- शादि ९० । ४३ । ३२ दशवर्जितम् 80।43।32 CC-0. Kashmir Research Institute Siagar. Bigidized betakari