पृष्ठम्:करणकुतूहलम्.djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

O गणककुमुदकौमुदीटीकासमेतम् । (५७) रविहरोऽयं स्वदशांशेन ८।४ । २१ ऊनो जातश्चंद्रहरः ७२ । २९ । १२ रविमन्दफलम् । ३८।४ रविहरेणाप्तमं- शादि०।०।२८ चन्द्रमन्दफलम् ४ । १९ । ५२ चन्द्रहरेण लब्धम् । ३। ३४ प्राक्कपालत्वात्फलस्वर्णत्वाद्धनम्, गतेःस्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः ८ । ०।४।१७ चन्द्रः १।२७ । ३५। १८ आभ्यां तिथिरेष्या ११ । ३८॥ अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाह- यातैष्यनाडीगुणिता द्युभुक्तिः षष्टयाहृता तद्रहि- तो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनौ पर्वान्त एवं समलिप्तकौ स्तः॥४॥ यातैष्येति-गतगम्येष्टघटीभिर्ग्रहस्य दिनभुक्तिर्गुण्या षष्टया भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलि- प्तको स्तः । अत्र पर्वान्तघटीकरणे शेषत्यागो भवति, तेन चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्विन्दोरंशा द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्च- न्द्रसूर्ययोर्गती पृथक् भुन्यन्तरेणाप्तेन कलाफलेन युतौ सम- न्वितौ समलिप्तिको स्तः । यथैष्यघटीभिः ११ । ३८ रवि- गति ६१ । २१ र्गुणिता ७१३ । ४२ षष्टया भक्ता लब्धेन 2 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri