पृष्ठम्:करणकुतूहलम्.djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमदकौमुदीटीकासमेतम् । (५९) याम्योऽपरं कर्कमृगादिषट्के ते चायने दक्षिणसौम्यके स्तः । खाश्वाः ७० शराङ्गानि ६५ रसेषवो ५६ऽग्नि वेदाश्च ४३ धिष्ण्यानि २७ खगाः ९ शरस्य ॥६॥ खण्डानि तैः क्रान्तिवदत्र साध्यो बाणः कलादि- स्त्रित्दृतोऽङ्गुलादिः। मकरादिषट्कमुत्तरायणं कर्कादिषट्कं दक्षिणायनं भवति । खाश्वाः ७० शरांगानि पञ्चषष्टिः ६५ रसेषवः षट्पञ्चाशत् ५६६ अग्निवेदास्त्रिचत्वारिंशत् ४३ धिष्ण्यानि सप्तविंशतिः २७ खगा नव ९ एतानि शरस्य खण्डानि षट्, तैः क्रान्ति- वत् क्रान्तिसाधनोक्तविधिना बाहुभागास्तिथ्युद्धृता इत्यादि- ना कलादिः शरो भवति त्रिभिर्विभक्तेंऽगुलादिः स्यात् । अथ सपातचन्द्रः६ ।। ५२ । २३ भुजः ।1। ५२ । २३ अस्यांशाः १ । ५२ । २३ पञ्चदशभिर्भागो न पतति तेन भुक्तशरखण्डाभावः, भोग्यप्रथमखण्डेन ७० भुजांशाः ।1। ५२ । २३ गुणिताः १३१ । ६ पञ्चदश- भिर्भक्तं लब्धं कलादिः ८।४४ त्रिहृतोंऽगुलादिः २ । ५५ विधिभेदादल्पान्तरः अंगुलादिशरस्यैवात्रोपयोगस्तस्माद्भुक्त- मग्रे सर्वत्र कलादेरुपयोगः ॥६॥ अथ चन्द्रादिबिम्बानामंगुलमानमिन्द्रवजार्द्धेनोप- . जतया आह- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri