पृष्ठम्:करणकुतूहलम्.djvu/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६२) करणकुतूहलम् । अथ स्थितिविमर्दे मिन्नजातरुपजात्याह- द्विघ्नाच्छराच्छन्नयुताहतात्पदं खाष्टेन्दुनिघ्नं विवरेण गत्योः । भक्तं स्थितिः स्याद्घटिकादिरेवं खच्छन्नतो मर्दमपि प्रजायते ॥१०॥ पूर्वानीतः शरो द्वाभ्यां गुणनीयश्छन्नेन युतः पुनस्तच्छ- न्नेन गुणितस्तस्मात्पदं मूलं ग्राह्यं तन्मूलं खाष्टेन्दुभिरशीत्युत्त- रशतेन गुणितं चन्द्रसूर्यस्फुटभुक्त्यन्तरेण भक्तं लब्धं घटिका- दिस्थितिर्भवति, छन्नवत्खच्छन्नेनैव विमर्दं भवति, यतो भूभा सूर्यगत्या पूर्वतो यात्यतो रविगतिर्गृहीता । यथा शरः२।५७ द्विघ्न ५।५४ छन्नेन १६।५२ युत २२॥ ४४ छन्नेनैव गुणितः ३८२।४ ० मूलम् १९।३४ खाष्टेन्दुभिः १।८० गुणितम् ३५२२।० चन्द्रसूर्ययोर्गत्यन्तरेण ७६८।१४ भक्तं लब्धम् ४।३५मध्यस्थितिघटिकादिका, परमास्थितिःपञ्चघ- टिकासन्ना, एवं खच्छन्नतो मर्दः, द्विगुणशरः ५।५४ खच्छ- नेन ५॥३८ युतः१३॥३२ खच्छन्नेन गुणितः ६४। ५८ पदम् ८ खाष्टेन्दुगुणम् १४४० भुक्त्यन्तरेण ७६८।१४ भक्तं लब्धं मर्दघटिका १। ५५ परमविमर्दः । घटिका- द्वयासन्नः ॥१०॥ अथ ग्रहणमोक्षयोः स्थितिविमर्दानयनं पञ्चकालसा- धनमिन्द्रवज्रात्रयेणाह- CC-O. Kashmir Research Institute, Srinade by eGangotri युत्फलमत्र