गणककुमुदकौमुदीटीकासमेतम् । (६३) लब्धम् । द्विष्ठा स्थितिस्तेन युता विहीना स्यातां क्रमात्स्पार्शिकमोक्षके ते ॥११॥ ओजे पदे पातयुतो विधुश्चेद्युग्मेऽन्यथैवं स्थितिव- द्विमर्दै । सूर्योदयादस्तमयाच्च गम्यो मध्यो ग्रहः पर्वविरामकाले ॥ १२ ॥ स्थित्या विमर्दैन च वर्जितेऽस्मिन्स्तःस्पर्शसम्मी- लनके क्रमेण । युक्तेऽथ तस्मिन्स्थितिमर्दकाभ्यां मुक्तिस्तथोन्मीलनकं निजाभ्याम् ॥ १३॥ विक्षेपत इति शरात्किंलक्षणान्नागयुगै४८ र्विभक्ता नाड्या- दिकं फलं लब्धं तेन फलेन द्विष्ठा स्थितिरेकत्र युतान्यत्र हीना सती क्रमेण स्पर्शमोक्षयोः स्थिती भवतः, अत्रैतस्मिन्नेव चन्द्रग्रहणे न तु सूर्यग्रहणे चेद्यदि पातयुतो विधुरो- जपदे स्यात्तदैवम्, अथ यदि सपातचन्द्रो युग्मे पदे स्यात्तदा फलयुता मोक्षस्थितिः फलहीना स्पर्शस्थितिर्भवति एवं स्थि- तिवद्विमर्देऽपि साध्ये, अत्र भास्थे स्पर्शमोक्षशरादेतत्कर्म साधितम्, तद्वचनं च विक्षेपत इति मध्यविक्षेपान्न भवति, स्वस्वविक्षेपादिति ज्ञेयम्, मध्यविक्षेपादेतत्कर्म कर्तुं न युज्यते यतो मध्यस्थितयोः सममन्तरं न भवति । शरस्यान्यदि- क्त्वात्, तस्मात्स्वमौक्षिके ते ॥११॥ स्वविक्षेपादिति सम्भ- वतीति मया तु वृद्धसम्प्रदायमनुसृत्योदाह्रियते । यथा मध्य CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/६८
एतत् पृष्ठम् परिष्कृतम् अस्ति