पृष्ठम्:करणकुतूहलम्.djvu/७

एतत् पृष्ठम् परिष्कृतम् अस्ति
(२)
करणकुतूहलम् ।


व्यता यस्मिंस्तत् प्रक्रियालाघवेन प्रस्फुटं सुगममित्यर्थवानेव ( अतः ) अस्यारम्भः । ननु सिद्धान्तादपि खेटकर्मैव मुख्यत्वेन साध्यग्रहगणितमिति नाम्ना प्रसिद्धत्वात्तदस्य शास्त्रस्य किं नामोच्यते । तत्र गणितशास्त्रं त्रिधा सिद्धान्ततन्त्रकरणत्वेन तल्लक्षणम् । यत्र कल्पादेराभ्य गताब्दमासदिनादेः सौरसावनचान्द्रमानान्यवगम्य सौरसावनगताहर्गणान्मध्यमादीनां कर्मोच्यते तत्सिद्धान्तलक्षणम् । वर्तमानयुगादेवर्षाण्येव ज्ञात्वोच्यते तत्तन्त्रलक्षणम् । वर्तमानशकमध्येडभीष्टदिनादारभ्यैवं ज्ञात्वोच्यते तत्करणलक्षणम् । ननु नमस्कारस्य विघ्नविधाते कथं सामर्थ्यम् । उच्यते । नमस्कारपुण्येन विघ्नाः प्रहन्यन्त इति । यत्रापि च नमस्कारमन्तरेणापि निर्विघ्नशास्त्रपरिसमाप्तिर्दृश्यते तत्रापि मानसिकप्रणिधानरूऽपोयं घटत एवेति सफलो नमस्कारव्यापारः किं च मङ्गलाभिधेयमिति तत्र मंगलमभिहितं नमो वचनेनाभिधेयं चात्र शास्त्रे ग्रहाणां मध्यमस्पष्टादिस्वरूपं वाच्यं प्रयोजनं च शिष्यानुग्रहः परमिदमैहिकमुक्तम् । पारत्रिकन्तु सम्यक् ज्ञानप्रकाशत्वेनोभयोरपि निःश्रेयसावाप्तिरिति वासना भाष्यतोऽवसेया । काचिच्चतुरचित्तचमत्कारकारिणी युक्तिरन्तरा दरीदृश्यते । अथोदाहरणोपयोगित्वाद्ग्रंथारम्भे कल्पादितो गताब्दादि लिख्यते तत्र कल्पगताब्दाः १९७२९४ ८२८४ । अधिमासाः ७२७६६१६८९ । अवमगणः १४५५२२५४५४ । उदये सावनोऽहर्गणः ७२०६३३६ ००७४५२॥ १ ॥CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri