पृष्ठम्:करणकुतूहलम्.djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (६५) स्थित्या ४ । ३२ युक्तो जातो मोक्षकालः १६ । १० स एव पर्वान्तकालः ११ । ३८ मोक्षमर्दैन ।1। ५२ युक्तो जात उन्मीलनकालः १३ । ३० स्पर्शकालः ७।। मोक्ष- कालः १६ । १० अनयोर्द्वयोरन्तरम् ९ । १० जातस्पर्श- मोक्षयोरन्तरकालः घट्यादिः पुण्यकालग्रहस्थितिः ॥१३॥ अथ वलनानयनमुपजातीन्द्रवज्रोपजात्याह- खाङ्का ९० हतं स्वद्युदलेन भक्तं स्पर्शे विमुक्तौ च नतं लवाः स्युः। तज्ज्याहताश्चाक्षलवा विभक्ता- स्त्रिभज्यया प्रागपरे नते स्यात् ॥१४॥सौम्यान्त- काशा वलनं ग्रहस्य युक्तायनांशस्य तु कोटि- जीवा बाणैर्विभक्तायनदिक्तथान्यद्भागाद्यमेकान्य- दिशोस्तयोस्तु ॥ १५ ॥ योगान्तरज्याहतमान- योगखण्डं त्रिभज्याहृतमङ्गुलाद्यम्। स्फुटं भवेत्त- द्वलनं रवीन्द्वोः प्राग्ग्रासमोक्षे विपरीतदिक्के ॥ १६॥ स्पर्शविमुक्ते मोक्षे च यन्नतं तत्खाङ्कैर्नवतिभिः ९० स्वदिनार्द्धेन चन्द्रग्रहणे रात्र्यर्द्धेन रविग्रहणे दिनार्द्धेन भक्तं नतांशाः स्युः, तेषां नतांशानां ज्यया गुणिताःस्वदेशाक्षांशास्त्रि- ज्यया विंशत्युत्तरशतेन १२० भक्ता लब्धं स्पर्शमोक्षवलनमं- शादिः स्यात्, पूर्वनते प्राक्कपाले सौम्यं वलनम्, अपरनते प्रत्यक्कपालेऽन्तकाशं याम्यं वलनम् । अयनांशयुक्तस्य तात्का-कोटिज्या लिकग्रहस्य रवेश्चन्द्रस्य वा कोटिज्या बाणैः पञचभिर्भक्ता Kashmir Research Institute, Srinagar. Digitized by eGangotri