पृष्ठम्:करणकुतूहलम्.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६६) करणकुतूहलम्। लब्धमंशायमायनं वलनं स्यात्, तच्चायनदिक् यदि सायनो ग्रहः सौम्येऽयने तदा सौम्यम्, यदि याम्येऽयने तदा याम्यम्, तयोरक्षवलनायनवलनयोरेकदिशि योगो भिन्नदिशि वियोगः कार्यः तस्य योगस्यान्तरस्य च या ज्या तया गुणितं छाद्य- छादकमानैक्याहर्द्धं त्रिभज्यया भक्तं स्फुटं वलनं भवति, योग- पक्षे सैव दिक, अन्तरपक्षेऽधिकवलनसम्बधिनी भवति । तच्च वलनं रवीन्द्वोः प्राग्ग्रासमोक्षे विपरीतदिक्कम् इति, प्राग्ग्रासं स्पर्शवलनं रवेर्ग्रहणे विपरीतं देयं याम्यं चेत्सौम्यं ज्ञेयम्,सौम्यं चेद्याम्यमिति, इन्दोर्ग्रहणे मोक्षवलनं विपरीतं याम्यञ्चेत्तदा सौम्यम्, सौम्यं चेत्तदा याम्यम् । विशेषश्चात्र खमध्ये पाताले चाक्षजवलनाभावः, वलनं चतुर्विशत्यंशप्रमाणम्, कर्कादौ मकरादौ च बलनाभावः सदोह्यम्, परमं स्पष्टवलनमङ्गुलप- श्चदशासन्नम् । यत्र षट्षष्टिपलांशास्तत्र परमं स्पष्टवलनं विंशत्यङ्गुलमुक्तप्रकारेण भवतीति ज्ञेयम् । इह सममण्डलं इष्टुः प्राची, सममण्डलादिष्टे नते काले विषुवन्मण्डलप्राची यावतायनश्चलति तावत्तद्दिकपालोद्भवं ज्ञेयम् । अथ विषुवन्म- ण्डलात्क्रान्तिमण्डलप्राचीं यावतायनश्चलति तदायनं तद्दिग्ज्ञे- यम् । तयोर्योगवियोगात्स्फुटमिति । सममण्डलात्क्रांतिमण्डलं यावतायनश्चलति तत्स्फुटं वलनमिति । अथ यस्तोदये ग्रस्तास्ते स्पर्शमोक्षवलनानयनमुच्यते रात्रेः शेषे गते वा इत्यादिना जातकवचनान्नतमानीय खाङ्कहतं स्वदिनार्द्धेेन भक्तं लम्बनन- 7