पृष्ठम्:करणकुतूहलम्.djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (६९) सन् स्पर्शकालिकः शरो भवति । स्थिते तृतीयभागेन युतो मध्यकालीनः शरोन्त्यकालीनो मोक्षकालीनः शरो भवति । युग्मपदोद्भवश्वेत्तदा स्थितितृतीयभागेन युतः सन्स्पार्शिकः, हीनः सन्मौक्षिकः शरः स्यात् । एवं विधोश्चन्द्रग्रहणे न तु सूर्यग्रहणे । वा अथवा विधोस्तात्कालिकात्सपातचन्द्रात्पथ. मान्त्यबाणौ साध्यौ, ते स्पर्शमध्यमोक्षशराश्चन्द्रग्रहणे परि- लेखकर्मणि विपरीतदिशो ज्ञेया नान्यत्र।उक्तं च, "नित्यशोऽ- र्कस्य विक्षेपा परिलेखे यथाक्रमम्।विपरीतं शशाङ्कस्य" इति। यथा मध्यस्थितिः ४।३५ तृतीयभागेन १।३१ओजपदत्वा- न्माध्यः शरः २।५७ हीनो जातःस्पर्शशरः१।२६मध्यशरः २।५७ स्थितितृतीयभागेन १।३१ युतो जातो मोक्षशरः ४।२८इदं कर्म माध्यशरस्यैव । अथःप्रकारान्तरेण स्पार्शिक श्चन्द्रः १।२९।११।३८ तात्कालिकपातेन ४।१।३५।५३ युतः६।०॥४७॥३१ भुजः ०।०॥४७॥३१ ज्या १।३९ त्रिघ्नी ४।५७ कृताप्ता शरो जातो याम्यः१।१४स्पर्शकालीनः मोक्षकालिकः पातः ४।१।३६।२१ चन्द्रेण२।१।१८।४४ युक्तः ६।२।५५।५ भुजः ०।२।५५।५ ज्या ६।७ त्रिघ्नी १८।२१ कृताप्ता मोक्षशरो दक्षिणः ४।३५।० प्रकारान्तर- भेदादल्पान्तरम् ॥ १७ ॥ अथ परिलेखमिन्द्रवज्राद्वयेनाह- ग्राह्यार्द्धसूत्रेण विधायवृत्तं मानैक्यखण्डेन च साधिताशम् । CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri