पृष्ठम्:करणकुतूहलम्.djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(७०) करणकुतूहलम्। बाह्येन वृत्ते वलनं यथाशं प्राक्स्पार्शिकं पश्चिमतश्च मोक्षम् ॥ १८॥ देयं खेः पश्चिमपूर्वतस्ते ज्यावच्च बाणौ वलनाग्न- काभ्याम् । उत्पाद्य मत्स्यं वलनायकाभ्यां माध्यः शरस्तन्मुखपुच्छसूत्रे॥१९॥ समे भूतले पदादौ वा ग्राह्यस्य चन्द्रग्रहणे चन्द्रस्य रवि- पहणे रवेः बिम्बमानाभ्गुलस्यार्द्धेनाभीष्टस्थानकल्पितबिन्दोर्म- ण्डलं कृत्वा ग्राह्यग्राहकमानयोगार्द्धप्रमाणेन कर्काटकेन सूत्रेण वान्यद्वृत्तं तस्मादेव बिन्दोः कृत्वा तस्माद्विन्दोरुपरि पूर्वापरं तथा दक्षिणोत्तरं रेखाद्वयं कर्तव्यम् । एवं साधितदिक्के बाह्येऽ- त्र वृत्ते वलनं देयं तच्च यथाशं दक्षिणस्यां याम्यं सौम्यमुत्तर- स्याम्, प्राग्ग्रासमोक्षे विपरीतदिक्त्वम् इति पूर्व सम्प्रसार्य तत्रापि चन्द्रग्रहणे स्पार्शिकं वलनं प्राचीचिन्हात्, मौक्षिकं पश्चिमचिह्नान्नेयम्, रविग्रहणे तु स्पार्शिक पश्चिमतो मौक्षिकं पूर्वतः, ततश्चन्द्रग्रहे व्यस्तदिशः शराः स्युरिति पूर्व सम्प्रसार्य्य स्पार्शिकमौक्षिकवलनाग्रचिह्नाम्यां स्पार्शिकशराङ्गुलपरिमि- ते शलाके क्रमेण स्वदिगभिमुखे ज्यारूपेण देयः । स्पर्शवल- नाग्रात्स्पर्शशरो देयः । मौक्षिकवलनाग्रान्मौक्षिकशरो देयो ज्यावत् । एवं धनुराकारे बाह्यवृत्ते रेखाप्रदेशेशरद्वव्याग्रं चिन्हं विधाय मध्यशरार्थमाह-उत्पायेति-वलनद्विकान्तरमितादिक सूत्रस्यैकाग्रं स्पर्शवलनस्योपरि धृत्वा तेन बिम्बार्द्धं कुर्यात्, CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri