पृष्ठम्:करणकुतूहलम्.djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (७७) ऋणं नतफलसंस्कता चन्द्रस्य गतिः८१८।४ अतः स्पष्टाति- थिरमावास्या एष्या घटयः २९।२४ एतत्कालिकाः यातै- ष्यनाडीगुणिताद्युभुक्तिरित्यादिना जातौ समकलौ, एवं सर्वत्र ज्ञेयं धीमता । अथ प्रस्तुतमारभ्यते नतोन्नतभागान् त्रिभोनलग्नस्ये- न्द्रवज्रयाह- दर्शान्तकाले त्रिभहीनलग्नं कार्यं च तत्क्रान्तिपला- न्तरैक्यम् । भिन्नैकदिक्त्वे नतभागकाः स्युःखाङ्क- च्युतास्ते पुनरुन्नतांशाः ॥१॥ दर्शान्तेति । तात्कालिकोऽर्क इत्यादिनामावास्यान्तकालीनं लग्नं संसाध्य राशित्रयेण हीनं कार्य तेन वित्रिभलग्नेन समश्चे- दर्शान्तकालिकः सूर्यो भवति तदा लम्बनाभावः, वित्रिभलग्ना- दूनेऽधिके वा रवौ लम्बनं स्यादिति ज्ञेयम्, विशेषोऽत्र वित्रि- भलग्नशब्देन दशमं भलग्नं ततश्चानीतं सम्यग्वलनं भवति, सूर्य- सिद्धान्तादौ दशमादेव साधितं यतो मध्यान्हसमान्ते दर्शान्ते नताभावात्सूर्य एव दशमो भावस्तदा लम्बनस्याभावः, वित्रि- भादानीतं कदाचिन्मध्यान्हासन्नकाले ग्रहणादिकं न मिलति तदा दशमादानीयते तदेव वास्तवं परं ग्रन्थकता कदाचिदपेक्षया स्थूलपक्षोऽप्यङ्गीकृतः, यदा लग्ने राशित्रयं न शुध्यति तदा चक्र दत्वा विशोधयेत् । उक्तं च भत्रयं चेन्न शुध्येत चक्र दत्वा विशो- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri