पृष्ठम्:करणकुतूहलम्.djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

2 (८२) करणकुतूहलम्। अथ गतगम्यपिण्डान्तरेण गुणिताच्छेषादेकादशभिर्भक्तेन गतपिण्डो युत, गम्ये पिण्डेऽधिके सति गम्ये पिण्डे हीने रहितः एवं संस्कृते गते पिण्डे खरसैर्भक्ते लब्धं मध्यमलम्बनं प्राग्वत्, तदुन्नतज्यानिहतं नखेन्दुभिर्भक्तमित्यादिना कार्यमेवं सकृदेवैक वारमपि भवति, अतो लम्बनसंस्कृततिथ्यन्तकालीनलग्नान्नतां- शादिक्रमेण नतिः साध्या यथा दर्शान्तकालीनवित्रिभलमार्क- योरन्तरम् २।६।४२॥३० भुजभागाः ६६ एकादशभक्ता लब्धं ६ षष्ठो गतः २४० गम्यः २३६ पिण्डयोरन्तरेण ४ शेषांशादि ०।४२।२७ गुणितम् २।५० एकादशभक्तं लब्धेन ०।१५।२७ गतपिण्डे गम्यपिण्डस्य हीनत्वाद्धी- नम् २३९।४४।३३ षष्टिभक्ते लब्धं मध्यमलम्बनम् ३।५९ वित्रिभलग्नोत्पन्नोन्नतज्यया ११०।३५ गुणितम्४४०।२९ नखेन्दुभक्तं जातं घट्यादिलम्बनं सकृत्स्थिरं रवेः सकाशाद- धिकं वित्रिभं तस्माद्धनम् ३।४० दर्शान्ततिथौ २९।२४ युक्तं जातः स्थिरो ग्रहणस्य मध्यकालः ३३।४ नतिरन्यल- ग्नादिति मध्यग्रहणसमयिकः ३३।४ सूर्यः ३।०।३८।३७ लग्नम् ९।१६।२६।७ वित्रिभम् ६।१६।२६।७ क्रान्तिः ६।४६।३७ नतांशा याम्याः ३१।९।४० ज्या ६१।५८ स्वद्वादशांशेन ५।९ युक्ता ६७।७ अष्टमक्ता८।२३इयं नतिः सकृतप्रकारेण लम्बने कृत उपयोगिनी ज्ञेया ॥ ५॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri