(८४) करणकुतूहलम्। २० गुणम् १२०।२० छाद्येन १०।२१भक्तं विश्वा११।३७ अथ स्थित्यानयनम् द्विघ्नाच्छरात् ९।२२ छन्नेन ६।१ युता १५॥२३ हतात् ९२।३३ मूलम् ९।३७ खाष्टेन्दु १८०। १७३१।० चन्द्रार्कयोर्गत्यन्तरेण ७६२।६ भक्तं घटिका- दिकं स्थित्यर्द्धम् २।१६प्रायशः सूर्यग्रहणे विमर्दाभावः॥७॥ अथ स्पर्शमोक्षमिन्द्रवज्रार्द्धनोपजात्या चेन्द्रवज्रयोप- दिश्योपजात्याह- स्यातां स्फुटौ प्रग्रहमुक्तिकालौ सकृत्कृते लम्बन- के सकृत्स्नः । तन्मध्यकालान्तरगे स्थिती स्फुटे शेष शशाङ्कग्रहणोक्तमत्र हि ॥८॥ सकृस्थित्येत्यादिना गणितेन तिथ्यानयनप्रकारेणागतस्ति- थ्यन्तः स्पर्शकाले साध्ये स्पर्शस्थित्योनः कार्यः मोक्षे साध्ये मोक्षस्थित्या युक्तः कार्यस्तादृशात्तिथ्यन्तात्पूर्वोक्तप्रकारेण लम्बनं संसाध्यं द्विःस्थाप्यः एकस्मिन् स्थितिलम्बनं तस्मिन् तिथौ हीनयुक्ते तिथ्यन्ते स्वमृणं प्राग्वद्विधेयं तस्मात्तात्कालि- कः स्पष्टः शरः स्थितिश्च कार्या तया स्थितया स्थित्या स्पर्श- मोक्षयोरूनयुक्ते गणितागततिथ्यन्ते द्वितीयस्थानस्थितं लम्बनं स्वमृणं कार्य तस्मात्पुनर्लम्बनं स्फुटशरः स्थितिश्चेत्येवमसकृ- द्यावदवशेषः स्यादेवं ग्रहमुक्तिकाले स्फुटौ स्तः, यदि सकृद्वि- धिना लम्बनं तदा सकृदेवायातौ प्रग्रहमुक्तिकालौ स्तः, तयोः स्पर्शमुक्तिकालयोःमध्यग्रहणकालयोर्येअन्तरे तद्गते स्पर्शमोक्ष- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/८९
एतत् पृष्ठम् परिष्कृतम् अस्ति