पृष्ठम्:करणपद्धतिः.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V द्वितीयोऽध्यायः । कक्ष्या या नभसः स्वपर्ययहृता कक्ष्या महाणां रवेः कक्ष्या नीतिसमाहता निगदिता नक्षत्रकक्ष्या बुधैः ॥ अथवा नयनाभ्यस्ता मध्यभुक्तिकला विधोः । स्वस्वकक्ष्यासु खेटानां दिनयोजनभुक्तयः ॥ २७ ॥ गुणो भवेद् यो धनभुक्तिरेषा तदा स्वकक्ष्यैव हरो ग्रहाणाम् । कलागतिश्चेद् गुणकोऽत्र हारो भचक्रलिप्ता निजमध्यनीतौ ॥ २८ ॥ इति करणपद्धतौ प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः । मन्दादिहारगुणिता भगणा युतोना ज्ञानीन्द्रसङ्गुणधनादिगुणैर्गुणाः स्युः | मन्दादिहारहतभूदिवसाश्च हाराः प्रोक्ता महागुणहरास्त इमेऽपवर्त्याः ॥ १ ॥ राश्योरन्योन्यहरणे शेपः स्यादपवर्तनम् | तेन तौ विकृतौ राशी दृढाख्यावपवर्तितौ ॥ २ ॥ महागुणनाद् युगणादभीष्टा- न्महाहराता भगणादिखेटाः । कल्यादिजैः स्वध्रुवकेः समेताः फणी तु तत्र ध्रुवतो विशोध्यः ॥ ३ ॥ गोत्रोद्गहताद् धनादिगुणतो मन्दादिहारोद्धृताः कल्यादौ रजनी करादि विहगा लिप्तादयः स्युः क्रमात् ।