पृष्ठम्:करणपद्धतिः.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तद्दिनोत्थेन्दुतदुच्चभेद- लिप्ताहतात् केन्द्रहरादभीष्टात् । केन्द्राण्यनन्तोत्करसंहृतानि स्वर्णात्मकानीन्द्वधिकाल्पकत्वे अभीष्टहारच गुणं तदीयं मिथो हरेत्तद्गुणहारशेषाः । अभीष्टहारोर्ध्वगहारकाणां धनर्णकेन्द्राण्यथवा भवन्ति ॥ ६ ॥ अभीष्टहारस्य गुणोऽयमुक्तः संस्कारहारानयने तु भाज्यः । ॥ ५ ॥ केन्द्राण्यमूनि स्वहरोधृतानां क्रमात् फलानां गुणका भवेयुः ॥ ७ ॥ स्वतुङ्गोनिता- शीतांशोर्विकलादितस्सकलगैर्युक्तात् प्तिीकृत्य कपोतदुर्जयहतात् नूरनातपत्रोद्धृतम् । श्रीसमप्रियताडितं विभजतात् कापोतदेहायनै स्तच्छिष्टं युगणात् त्यजेत् तुहिनगोर्वाक्योक्तखण्डाप्तये [॥ ८ ॥ लव्धं तत्र तु कालनागगुणितं श्रीसङ्गरम्यैर्भजेत् तच्छिष्टोनहरोनितो दिनगणो वा वाक्यखण्डो भवेत् । तत्राप्ते किल देवरैर्विनिहते कालानलैः संहृते शेषं वा धुगणात् त्यजेत् तुहिनगो र्वाक्योक्तखण्डाप्तये ॥ ९ ॥