पृष्ठम्:करणपद्धतिः.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । तद्दिनेन्दूच्चयोर्भेदात् पर्याप्तहृदयाहतात् । केन्द्राख्यं चक्रलिप्ताप्तं स्फुटेन्दुस्तत्र हि ध्रुवः ॥ १०॥ शिवोदितं कम्पितदुर्जयं च छिन्यान्मिथो व्युत्क्रमतोऽत्र शेषाः । श्रीसद्गरम्यादिहरावृतानां धनर्णरूपा गुणका भवन्ति ॥ १९ ॥ देवेन्द्रसङ्ख्यावधिकैरेकाद्येकोत्तरैर्दिनः । पृथक् पृथक् स्फुटीकुर्यादिन्दुं तद्वाक्यसिद्धये ॥ १२ ॥ तुङ्गोनितादेव विधोर्यथोक्तं नीते च खण्डे शशितुङ्गयोगः । तत्रेष्टहाराधिकतावशात् त द्योगस्य सूर्योदयसन्निकर्पः ॥ १३ ॥ तद्वासरोत्थतुहिनांशुतदुच्चभेद- लिप्ताहताभिमतकेन्द्रहराद् गुणाप्ताः | योगोदयान्तरभवा ह्यसवः क्रमेण स्वर्णात्मकास्तुहिनगोरधिकाल्पकत्वे ॥ १४ ॥ प्राणेस्तैः स्वगुणाभ्यस्तैः स्वहाराप्तैश्च संस्कृतौ । चन्द्राविमौ स्यातां तुल्यौ योगध्रुवाहयौ ॥ १५ ॥ एवमेव पुनारष्टखेटयोर्योगामेष्टसमये समानयेत् । इष्टकालखगमध्यमान्तरक्ष्मादिनेष्टखगपर्ययान्तरैः इति फरणपद्धतौ तृतीयोऽध्यायः ॥ Q [॥ १६ ॥