पृष्ठम्:करणपद्धतिः.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपखतौ अथ चतुर्थोऽध्यायः । चन्द्रादन्यविहङ्गानां मध्यानयनहारकाः । मन्दकेन्द्रहरा ज्ञेयाः सोरा एव ज्ञशुक्रयोः ॥ १ ॥ भास्करेष्टखग पर्ययान्तरं भूदिनं च विभजेत् परस्परम् । हारकानिह फलैः समानयेत् ते भवन्ति चलकेन्द्रहारकाः ॥ २ ॥ १० मध्याद्र ग्रहाणां स्वमृदूञ्चहीना- च्छीघोचतो मध्यविवर्जिताच्च । खण्डं नयेत् केन्द्रहरैस्तदीयै- रिन्दूक्तवन्निर्गणितोदितास्ते ॥ ३ ॥ गुणहाराविशेषोक्तौ सर्वत्रापि हरो महान् । हाराधिके गुणे हाराननाद्यैश्च फलैर्नयेत् ॥ ४ ॥ हारः सूर्यविहड्गयोर्भगणयोर्भेदो गुणोऽल्पस्तयो- स्ताभ्यामत्र परस्परातफलजा हारा धराहाहताः | भक्तास्तेन हरेण वाक्यकरणोक्ता मण्डलाः स्युस्तथै- वान्योन्याहृतशिष्टचक्रकलिकाभ्यासाद् धनर्णध्रुवाः [॥ ५ ॥ मण्डलानयने नीता हारा मण्डलहारकाः । तैः शोध्यमानयेद् यद्वा सध्रुवैः स्वल्पमण्डलैः ॥ ६ ॥ अभिमतदिनविहगोना- च्छीघ्रोञ्चाद् भुक्तिविवरलब्धोनः ।