पृष्ठम्:करणपद्धतिः.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिमतदिवसगणोऽयं शीघ्रोञ्चविहङ्गयोगसमयः स्यात् ॥ ७ ॥ यद्वेष्टमध्यविहगोनचलोच्चलिप्ता- संवर्धितक्षितिदिनाद् भगणान्तराप्तम् | अज्ञातपारगृतमिष्टदिनाद् विशोष्यं शिष्टं चलोच्चखगमध्यमयोगकालः ॥ ८ ॥ तत्कालमध्यविहगं स्वमृदूच्चहीनं लिप्तीकृतं तु निजमण्डलहारकेषु । इष्टेन सङ्गुणमनन्तपुरेण भक्त- मिष्टोर्ध्वहारहतमिष्टहरेण हृत्वा ॥ ९ ॥ चतुर्थोऽध्यायः । ऊनाधिकं तदिह हारसमासमवे धात्रीदिननमुभयोर्भगणान्तराप्तम् । शीघ्रोच्चमध्यमविहङ्गमयोगकाला- छोष्यं तदा भवति शोध्यदिनं ग्रहाणाम् ॥ १० ॥ तत्कालग्रहमध्यस्य मन्दतुगस्य चान्तरम् । शोध्यध्रुवं धनर्णाख्यमुच्चान्मध्येऽधिकेऽल्पके ॥ ११ ॥ शीघ्रोच्चग्रहमध्ययोः सदृशयोस्तन्मध्येतुङ्गान्तरं लिप्तीकृत्य हरेद्र ध्रुणधर्मध्यग्रहेऽल्पेऽधिके । शिष्टं शोध्यदिनभुवं ध्रुवफलक्षुण्णाश्च तन्मण्डला- च्छीघोच्चमहमध्यसाम्यसमयाच्छोभ्याः स्वशोध्या- [प्तये ॥ १२ ॥ ९. स. घ. पाठ:.