पृष्ठम्:करणपद्धतिः.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धतौ शीघ्रोच्चमध्यग्रहयोग कालो मौढ्योक्तकालार्धदिनः समेतः । मौढ्यावसान युगणः सखण्डो मौट्येऽन्न हाराश्चलकेन्द्रहाराः ॥ १३ ॥ गुणहारौ ग्रहादित्यभगणौ तौ मिथो हरेत् । हारकास्तत्फलैनीता भवन्त्यगणितोदिताः ॥ १४ ॥ १२ मध्यान्दान्तसमानीतमध्यग्रहदिनेशयोः । अल्पभोगं महाभोगात् त्यक्त्वा शिष्टं कलीकृतम् ॥ १५ ॥ हारेष्वगणितप्रोक्तष्वभीष्टेन समाहतम् । चक्रलिप्ताप्तमिष्टोर्ध्वहारकेण हतं पुनः ॥ १६ ॥ इष्टहारेण संहृत्य तत्रोनमधिकं तु वा । इष्टहारयुगोजत्ववशात् त्याज्यं शकाव्दतः ॥ १७ ॥ शिष्टाव्दान्ते भवेद्र योग इष्टग्रहादनेशयोः । तस्मादगणितप्रोक्तः शोभ्यान्दः सोऽयमीरितः ॥ १८ ॥ कल्यवदनाधिमासा दिनकरभगणैः संहृता भूदिनघ्नाः कल्यादीन्दुध्रुवांशक्षितिदिनवधतो निश्चला तैर्विहीनाः । भक्तास्तत्राधिमासैर्भवति दिनगणः सोऽधिमासोक्तखण्डो- ऽथान्योन्याप्साधिमा सक्षितिदिनरचिता हारकास्तत्र हाराः ॥ १९ ॥