पृष्ठम्:करणपद्धतिः.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फरणपद्धतौ तत्पर्ययाभिहतकल्पगताब्दवृन्दात् कल्पार्कपर्यहृतं भगणादिमध्यम् । त्यक्त्वा परीक्षितसमान्तविहङ्गमध्या- च्छिष्टं वदन्ति किल कल्पमुखध्रुवाख्यम् ॥ ५ ॥ कल्पोक्तभूदिवसकल्पगताब्दघातात् कल्पोक्तभानुभगणाहृतवासरादेः । सप्ताप्तशिष्टरहितेप्रसमान्तकालः कल्पादिजो भवति सङ्क्रमणध्रुवोऽयम् ॥ ६ ॥ तन्त्रानीत परीक्षितारुणभिदा- लिप्ताः पृथग् भूदिनैः कल्पोक्तैर्ग्रहपर्ययैश्च गुणिताः कल्पार्कवर्षाकृताः । प्राणाः सङ्क्रमणग्रहेषु कलिकाः कल्पादिगेषु मात् स्वर्ण तत्र परीक्षिते दिनकरे स्वल्पेsधिके ते स्फुटाः ॥ ७ ॥ एवं तु ध्रुवसद्भावः कल्पादौ नैव युज्यते । इति तत्परिहारार्थ संस्कारान्तरमिष्यते ॥ ८ ॥ हृत्वा मिथः कल्पगताव्दवृन्दं कल्पोदितं भास्करपर्ययं च । लभैः समानीतहरेश्वभीष्टे- नाहत्य कल्पादिखगध्रुवांशान् ॥ ९ ॥