पृष्ठम्:करणपद्धतिः.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । हत्वातुलेरातमभीष्टहार- स्योर्ध्वस्थहारेण निहत्य हत्वा । पूर्वोदिता भीष्टहरेण शिष्टं हारौजयुग्मत्ववशाद् धनर्णम् ॥ १० ॥ कल्पोदिते संस्कृतपर्ययौधे ग्रहस्य कुर्यात् स तवा स्फुटः स्यात् । इष्टघ्नहारोनयुतः सदृष्टः कचिद् ग्रहो दृष्टिसमो यतः स्यात् ॥ ११ ॥ साभ्यां हराभ्यां तु तथा मृदूच्चात् पाताञ्च नीतो भगणस्तदीयः । हाराद्विशोध्योऽयमृणात्मक क्षेत् पातस्य सर्वं विपरीतमेव ॥ १२ ॥ कैल्पगतं वर्षगणं सप्ताहतकल्पभानुभगणमपि । मृत्वा पुनरन्योन्यं तत्राप्तैरिकाः कार्याः ॥ १३ ॥ हारेषु तेष्वभिमतेन पुनर्विनिघ्नात् कल्पादिसङ्क्रमदिनात् खलु सप्तभक्तम् । इष्टोर्ध्वहारहतमिष्टहरेण तष्टं प्राग्वच कल्पकदिने स्वमृणं प्रकुर्यात् ॥ १४ ॥ कल्पादीनां प्रमाणं तु बहुधा कल्प्यते बुधैः । उपेयस्यैव नियमो नोपायस्येति यत् ततः ॥ १५ ॥ १. 'सतह करुगतं स स. पाठ: [१५]