पृष्ठम्:करणपद्धतिः.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः । ॥ ३ ॥ हार्य हारेक्यभेदनं हारघातेन वा हरेत् । हार्याद्धारयुगावाप्तफलयोगान्तराप्तये वर्गैर्युजां वा द्विगुणैर्निरेकै वर्गीकृतैर्वर्जितयुग्मवर्गैः । व्यासं च पड़नं विभजेत् फलं स्वं व्यासे त्रिनिघ्ने परिधिस्तदा स्यात् ॥ ४ ॥ व्यासादभीष्टान्महतोऽस्य वृत्तं नीभ्यां तु मिथो विभक्तेः । कार्या यथोक्तं गुणकारहारा- स्ते व्यासवृत्तानि तदा भवन्ति ॥ ५ ॥ .१७ गुणहारकभूतैस्तैर्व्यासष्टत्तैर्यथोदितम् । इष्टवृत्तान्नये व्यासं व्यासाद् घृतं विपर्ययात् ॥ ६ ॥ अनूननूत्नाननुनुन्ननित्यै- स्समाहताश्चऋकला विभक्ताः । चण्डांशुचन्द्राधमकुम्भिपालै- यसस्तदर्धं त्रिभमौर्विका स्यात् ॥ ७ ॥ त्रिज्यार्धमेकराशिज्या त्रिज्यावर्गार्धतः पदम् । भवेदध्यर्धराशिज्या ताभ्यामन्यगुणान् नयेत् ॥ ८ ॥ त्रिज्येष्टज्यायधाढ्योनत्रिज्यावर्गोत्थमूलयोः भेदयोगदले त्विष्टचापार्धभुजकोटिके ॥ ९ ॥ यद्वेष्टचापगुणतच्छरवर्गयोग- मूलार्धमिटधनुरर्धगुणः प्रदिष्टः । । १. 'वृद्धं नयेद् तस्य व्यात. स. एट्र 1"