पृष्ठम्:करणपद्धतिः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करण पद्धती एकद्विव्यादिस इङ्ख्याध्नत्रिज्यावर्गनयांशतः । घनमूलं हि चोपज्या श्वसङ्ख्घोनविलिप्तिकम् ॥ २० ॥ इति करणपद्धती पष्ठोऽध्यायः ॥ अथ सप्तमोऽध्यायः । भानोर्गानं विधोः स्थानं स्फुटवृत्तकलाः सदा । वन्द्यो दिव्यो गुणीकृष्णः सुनुर्मानी कलाधरः ॥ १ ॥ स्थानं दानं तपो मान्यं भानुः प्राज्ञोऽधमः समः । धनी लोको धनं दानं भोमात परिधिलिप्तिकाः ॥ मन्दशीघ्रक्रमात् केन्द्रस्य/जयुग्मपदादिगाः । पृथगेकैकपादोक्ता असुरैरपवर्तिताः ॥ ३ ॥ वृत्तान्तरेणाहतवाहुजीवां हत्वा त्रिमौर्या फलमोजवृत्ते । क्रमाद धनणं विदुरोजवृत्त- स्याल्पाधिकत्वे स्फुटवृत्तसिद्ध्यै ॥ ४ ॥ मान्देन स्फुटवृत्तेन निहतादिष्टदोर्गुणात् । नन्दाप्तं चापितं मान्दमर्कादीनां भुजाफलम् ॥ ५॥ शेघे दोः कोटिजीचे स्फुटपरिधिहते नन्दभक्ते फले ते व्यास कोटिजं तद धनमिह मफरादावणं कर्कटादौ । 'पार्थमुका गुहादिया. क. पाठः स, पाउ:.