पृष्ठम्:करणपद्धतिः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ करणपद्धतौ दोर्ज्या संस्कृतकोटिकामपि तथा व्यासार्धसंवर्धितां तच्चापं भुजकोटिचापरहितं ज्या कर्किनकादिका ॥ कोटिज्याल्पा चरमफलतः कर्कटादो यदि स्यात् त्रिज्याभ्यस्तादिह भुजगुणात् कर्णभक्तस्य चापम् । दोश्चापाढ्यं भगणदलतस्त्यज्यतां संस्कृतायाः कोट्यास्तद्वच्छ्रतिद्वृतधनुः क्षिप्यतां कोटिचापे ॥ १२॥ अथवान्त्यफलाभ्यस्ताद् दोर्गुणात् कर्णसंहृतम् | चापीकृतं भवेदत्र कर्किनकादिमौर्विका ॥ १३ ॥ अन्त्यं फलं कोटिगुणे द्विनिप्ने 'कृत्वामुनैवान्त्यफलेन हत्वा । संस्कृत्य तद् व्यासदलस्य वर्गे मूलीकृतो वा भवतीह कर्णः ॥ १४ ॥ मृगकर्कटकादिदोः फलात् तद्- भुजचापोनयुताद् भुजागुणो यः । अमुना विभजेद् भुजाफलज्या- मजनिघ्नीं फलमत्र शीघ्रवृत्तम् ॥ १५ ॥ अन्त्यभुजाफलनीतं वृत्तं स्यादन्त्यवृत्तमोजपढे । एकभदोः फलनीतं द्विगुणितमन्त्योनितं भवेदाद्यम् ॥ १६ ॥ राश्यन्तभानुस्फुटतो मृदूच्चं विशोध्य दोःकोटिगुणौ गृहीत्वा |