पृष्ठम्:करणपद्धतिः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः । त्रिसगुणौ तावथ नन्द्रभक्तो क्रमेण दोः कोटिफले भवेताम् ॥ १७ ॥ कोटीफलं कर्किमृगादिजातं त्रिमौर्विकायां स्वमृणं च कृत्वा । तद्वर्गतो दोः फलवर्गयुक्ता- न्मूलं विपर्यासकृतोऽत्र कर्णः ॥ १८ ॥ त्रिज्याहताद् दोः फलतोऽमुनाप्तं चापीकृतं मेषतुलादितस्तद् । राइयन्त्यभानौ स्वमृणं च कुर्यात् तदा भवेत् सङ्क्रमणार्कमध्यम् ॥ १९ ॥ सूर्येन्द्रोरेवमेवेष्टस्फुटात् तन्मध्यमानयेत् | तत्रोक्तव्यस्तकर्णात्तस्त्रिज्यावर्गो मृदुश्रुतिः ॥ २० ॥ मृदुश्रुतिहतात् कक्ष्यावृत्ताञ्चककलाहृतम् | स्फुटयोजनकर्णाख्यं कक्ष्याव्यासदलं रवेः ॥ २१ ॥ भागकृतात् तदनु सङ्क्रमणार्कमध्या- दव्दान्त दोः फलयुताद्धरणीदिनघ्नात् । सौरैर्टिनरपट्टतं खलु मासवाक्यं २३ सङ्क्रान्तिवाक्यमिह तत्सुहृतावशिष्टम् ॥ २२ ॥ नक्षत्रान्तस्फुटोत्पन्न मध्यार्कादेवमेव च । नयेन्नक्षत्रसङ्क्रान्तिवाक्यं कविषु पूर्वकम् ॥ २३ ॥ मासादितोऽष्टाष्टदिनोत्थमूर्य- स्फुटान्तरांशाष्टदिनान्तराणि ।