पृष्ठम्:करणपद्धतिः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धतौ योग्यादिवाक्यानि धनर्णतैपां दिनाल्पताधिक्यवशादिनाप्तौ ॥ २४ ॥ भौमादेः कृतमन्ददोः फलदलात्तत्केन्द्रतो दोः फलं नीतं केवलमध्यमे धनमृणं मन्दस्फुदस्याप्तये । विभृग्वोर्निजमध्यमे मृदुफलं स्वोच्चोनमध्योदभवं नन्दघ्नं स्फुटशीघ्रवृत्तविहृतं कुर्यात् स मन्दस्फुटः [ ॥ २५ ॥ २४ स्त्रोपान्त्यान्त्यस्फुटाभ्यां निजनिजचलतु- गोनिताभ्यां भुजाज्ये नीत्वा त्रिज्याहताभ्यां विभजतु परया शीघ्रकर्णस्तढा स्यात् । मन्दोच्चेनोनिताभ्यां श्रवणमपि नये- न्मध्यमन्दस्फुटाभ्यां मान्दा यत्र स्फुटाप्तिः पठितभुजफलै- स्तत्र कर्णाप्तिरेवम् ॥ २६ ॥ दोर्ज्याभावे तु केन्द्रे सांते मकरकुलीरादिके तत्र मान्दे तद्वृत्तोनाढ्यनन्दै स्त्रिभगुणगुणितान्नन्दनान्मन्दकर्णः । शैमे तद्वृत्तयुक्तोनितनदगुणिताद्विस्तरार्थान्नदाप्तो भौमादे: शीघ्रकर्णः सततमपि विधोः शघिकण- [ ऽन्त्यकर्णः ॥ २७ ॥ कर्णद्वयस्य वधतस्त्रिगुणेन लब्धं केन्द्रग्रहान्तरमिनस्य तु तत् स्वकर्ण: 1