पृष्ठम्:करणपद्धतिः.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । त्रिज्याहतापक्रमतोऽक्षजीवा स्याच्छङ्कुभक्ता समवृत्तगेऽर्के । मध्याह्रभापक्रमचापयोर्वा भेदोऽक्षचापो विदिशोस्तु योगः ॥ ७ ॥ हृतयोः | अन्योन्यकोटिहतयोरभिमतगुणयोस्त्रिजीवया योगवियोगो स्यातामभिमतगुणचापयोग विवरगुणौ [॥ ८ ॥ २७ भाकोटिकायुगुणवर्गभिदापदाढ्य- इच्छायाभुजापहृतशङ्ङ्क्वपमैक्यवर्गः । हारे धनर्णमनयोर्महताल्पतोऽक्ष- त्रिज्याहताद् भवति लम्बगुणोऽस्य कोटिः ॥ ९ ॥ - व्यासार्धवर्गतो लब्धः स्फुटया लम्बजीवया । स्वदेशहारकः प्रोक्तो व्यस्तलम्बः स उच्यते ॥ १० ॥ गुणश्चतुर्विंशतिभागजातः परापमस्तेन हतेष्टजीवा | त्रिज्याहृता कान्तिगुणोऽस्य कोटि- धुमोर्विका स्याद् दिननायकस्य ॥ ११ ॥ अन्त्यपुजीवाहतवाहुजीवा- मिष्टधुमौर्या विभजेदवाप्तम् । चापीकृतं बाहुगुणस्य चापाद् विशोधितं प्राणकलान्तरं स्यात् ॥ १२ ॥ दोः कोटिमौयिर्वधतस्त्रिमोर्व्या लब्धं परापक्रमबाणनिघ्नम् ।