पृष्ठम्:करणपद्धतिः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ करणपद्धतौ युज्याहृतं प्राणकलान्तरं तद् युग्मौजपादक्रमतो धनर्णम् ॥ १३ ॥ कोटीगुणं व्यासदलेन संह- त्येष्टयु मौर्व्या विभजेदवाप्तम् । चापीकृतात् कोटिगुणस्य चापे त्यक्तेऽथवा प्राणकलान्तरं स्यात् ॥ १४ ॥ पलव्यया हतापमात् स्वलम्वकेन भृगुणः । ततस्त्रिजीवया हताद् घुजीवया हृतं चरम् ॥ १५ ॥ चरमधुगुणाहतेष्टदोर्ज्या- विहृतेष्टयुगणेन कालजीवा । चरमेण चरेण ताडिता सा त्रिभजीवापहृताथवा चरज्या ॥ १६ ॥ त्रिज्याक्षघातादवलम्चकाप्ते- नाहत्य दोःकान्तिगुणं युमौर्या । हरेदवाप्तं चरमौर्विका स्यात् तदीयचापा हि चरासवः स्युः ॥ १७ ॥ त्रिज्याक्षघातलम्बांनाहतादिष्टदोर्गुणात् । तत्कोट्याप्तं चरज्या स्याद् माया सा कान्तिचापतः [i॥ १८ ॥ अन्त्यधुज्याहतादन्त्यक्षेपादन्त्यापमोद्धृते । अन्त्यक्षेपशराभ्यस्तां कोटिज्यां त्रिज्यया नृताम् ॥ १९ ॥ फर्किनक्रादितः स्वर्ण कुर्यादन्त्यफलाप्तये । तद्धते बाहुकोटिज्ये त्रिज्याप्ते बाहुकोटिजे ॥ २० ॥