पृष्ठम्:करणपद्धतिः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । २९ व्यासार्धे कोटिजं स्वर्ण मृगकर्यादितः क्रमात् । तबाहुफलवर्गैक्यमूलं कर्णोऽत्र राहुजः ॥ २१ ॥ दोः फलं त्रिज्ययाभ्यस्तं राहुकर्णेन संहरेत् । लव्धचापं भवेदिन्दोर्विक्षेपचलनाह्वयम् ॥ २२ ॥ परमापक्रमाभ्यस्तं राहुकणं त्रिजीवया । विभजेल्लव्धमिन्दोः स्यात् परमक्रान्तिमौर्विका ॥ २३ ॥ त्रिज्यावर्गेणाहतादक्षकर्णाद् युज्या भक्तास्त्रिज्यकाभक्तहीनाः । मान्यादिज्याः सम्भृताक्षेऽत्र देशे देवाप्तास्ता हारजीवा इनायाः ॥ २४ ॥ + धूळीरागो भुवो वृत्तं तेन चक्रांशकाहतात् । दिनयोजनभोगात् स्याव लब्धो लम्वनहारकः ॥ २५ ॥ त्रिज्यातो लम्वहाराप्तं नाडिकाद्यन्तलम्बनम् । तदेव गतिभागनं शोध्यं छायाविधौ नरात् ॥ २६ ॥ सूर्येन्द्वोर्भुक्ति लिप्ताविवरविरहिता राशिचक्रस्य लिप्ता भूव्यासार्धेन निम्ना नृपहतहिमरु- भुक्तिलिप्ताविभक्ताः । त्रिज्यान्त्यक्रान्तिकोढयोर्युतिदलगुणिता- स्त्रिज्ययाहृत्य लब्धं लम्वघ्नं त्रिज्ययाप्तं चरमफलमिदं लम्वनोत्थं वदन्ति ॥ २७ ॥