पृष्ठम्:करणपद्धतिः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० करणपद्धती त्यजेत् त्रिज्यावर्गाच्चरमफलवर्गेण सहिताद् द्विनिघ्नीं कोटिज्यां चरमफलसंवर्धिततनुम् । ततो मूलं कर्णस्त्रिभगुणहतं वाहुजगुणं हरेत् कर्णेनाप्ता ग्रहणपठिता लम्बनगुणाः ॥ २८ ॥ कोटीगुणा भेनिहतस्तनचित्रहीनं स्त्रीकेळिमाल्यमलयं पदितं च कर्णः । त्रिज्याहताद् भुजगुणादमुना हृता वा प्रीताङ्गनायुदितलम्बनमोर्विकाः स्युः ॥ २९ ॥ कोटिज्याघ्नेनाघनागेन हीनात् प्रज्ञामोहप्रायवाक्यात् पदं यत् । तेनावाप्ताद् दोर्गुणात् कातरभाद् योगी रक्तेत्यादिका लस्वनज्याः ॥ ३० ॥ विस्वादीनां योजनानि हतानि विभजीवया । स्फुटयोजनकर्णेन भक्तान्येषां कलाः स्मृताः ॥ ३१ ॥ अथवा स्फुटगतिलिसा बिम्बव्यासस्य योजनैर्गुणिताः । दिनयोजन गतिविद्वृता- स्तस्य च लिप्ता भवन्ति रविशशिनोः ॥ ३२ ॥ भृव्यासयोजनहताः शशिभुक्तिलिप्ता भूभ्यर्कविस्तृतिभिदाहतभानुगत्या । हीनाः पुनर्दिवसयोजन भुक्तिभक्ता लिप्ता भवन्ति तमसः शशिमार्गगस्य ॥ ३३ ॥ 'ग' ग. पाठ:. १.