पृष्ठम्:करणपद्धतिः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः । स्वर्ण हायै स्यान्मन्दशीघ्रोदित फलविवरे कर्किनकादियाते स्वर्णैक्यभेदान्निजवधशिखरां- शाढ्यहीने शरीरे | पञ्चघ्नमौढ्योदितलवविहृता विम्वलिप्ताः कुजादेः स्थानोद्यन्नाथशीतक्षतपुलिनद्वृता- स्ताश्च कैश्चित्प्रदिष्टाः ॥ ३४ ॥ तस्मात् इति करणपद्धतौ अष्टमोऽध्याय || अथ नवमोऽध्यायः । कृतायनेष्टराश्यन्ते चरप्राणकलान्तरे | कुर्यात्तदिष्टराश्यन्तकाललग्नमुदाहृतम् ॥ १ ॥ । इष्टतत्पूर्वराइयन्तकाललग्नान्तरांशकाः दशाहता भवन्तीष्टराशिमानविनाडिकाः ॥ २ ॥ तटज्ञो गुणेन प्रसन्नो नृनम्यो वरेण्यो निविष्टो वदान्यो नृपेन्द्रः | हरिद्रा समुद्रः प्रहारो दिनाम्बु- स्तवाङ्गो निसर्गों विळङ्गो विरुद्धः ॥ ३ ॥ विभावस्तृणौधो गजाभो धनेशो वलेशो धृताशः कळात्मा विपक्षः । क्षमोक्षो निलान्तो निरासः स्युरेते क्रमादर्द्धिता वस्त्रपूर्वाः स्फुटांशाः ॥ ४ ॥ 'म' ग. पाठः. ३१