पृष्ठम्:करणपद्धतिः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ करणपद्धतौ नम्यः प्रियो मुनिर्मानी नित्यं पूज्यस्तनुर्न्ननु । स्थाने ज्ञानी प्रियो लोके सूनुः प्राज्ञः स्थले पुनः ॥ ५ ॥ लग्ने भानुर्जनस्थाने सूनुर्नागस्तिलं ननु । वक्रस्तत्र ननु क्षेपभागा दस्रादितः क्रमात् ॥ ६ ॥ दस्रान्तकार्यमभगादिति वह्नि वायु- वस्वेकपाद्विहरिशूर्पगताश्च सौम्याः | याम्याः परे वरुणनैऋतशूर्पभानां क्षेपास्तु दिव्यनगनागकलान्वितास्ते ॥ ७॥ नक्षत्राणां स्फुटाः कार्याः सकलाः संस्कृतायनाः । तेषां क्रान्तिगुणाः स्पष्टाः स्वस्वविक्षेपसंस्कृताः ॥ ८ ॥ परमापक्रमकोट्या विक्षेपज्यां निहत्य तत्कोट्या | इष्टक्रान्तिं चोभे त्रिज्याप्ते योगविरहयोग्ये स्तः ॥ ९ ॥ सदिशो: संयुतिरनयोर्वियुतिर्विदिशोरपक्रमः स्पष्टः । स्पष्टापक्रमकोटिद्युज्याविक्षेपमण्डले वसताम् ॥ १० ॥ स्फुटक्रान्तिगुणो भूयः केवलक्षेपसंस्कृतः । परक्रान्तिशराभ्यस्तः परक्रान्तिहृतो गुणः ॥ ११ ॥ गुणहतात् त्रिभयुक् स्फुटदोर्गुणाद् दिनगुणाप्त धनुस्त्रिभयुक्स्फुटे । ऋणधनं समभिन्नदिशो भवे- दिवसमध्यगकालविलग्नकम् ॥ १२ ॥ यहा स्फुटे निजकलासु भिदां च कृत्वा तस्मिन् पुनस्त्रिभयुते स्वभुजापमज्याम् ।