पृष्ठम्:करणपद्धतिः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः । क्षेपाहतामपमकोटिहृतां पुरोवत् कुर्यात् स्वमध्यदिनकालविलग्नसिद्ध्यै ॥ १३ ॥ यद्वा क्रान्तितदीयकोट्यसुकलाभेदांस्त्रिभोनस्फुटा- दानीयासुकलान्तरं त्रिभयुते कुर्यात् स्फुटे तत्र तु । तत्क्रान्त्योर्वधतोऽर्धविस्तृतिहताद् युज्यावधाप्ताद् धनुः क्रान्त्योर्भिन्नसमाशयोर्धनमृणं मध्याह्नकालाप्तये [ ॥ १४ ॥ विक्षेपकोटीपरमजीवा- घातात् परक्रान्तितो हरः स्यात् । क्षेपाहते स्वस्फुटकोटिदोज्य हाराहूते कोटिभुजाफले स्तः ॥ १५ ॥ भुजाफलं व्यासदले धनर्ण विक्षेपदोर्ज्याहरिदैक्यभेदात् । तद्वर्गकोटीफलवर्गयोगा- न्मूलं भवेदायनसंज्ञकर्णः ॥ १६ ॥ कोटीफलं व्यासदलेन हत्वा कर्णामृतंकूफलमायनं स्यात् । स्वर्ण स्फुटे तन्मृगकर्कटायोः क्षेपे तु मेपादिगतेऽन्यथा स्यात् ॥ १७ ॥ तस्मिन् पुनः प्राणकलान्तरं च कुर्यात् तदा स्यान्नतकाल पपः | नताख्यकालस्त्रिभसंयुतोऽयं माध्याहिकं कालविलनकं स्यात् ॥ १८ ॥ F Au