पृष्ठम्:करणपद्धतिः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमोऽध्यायः । घाताप्तं काललग्ने क्षिपतु कृतधनु- स्त्यज्यतां प्राक्कपाले कालो माध्याह्निकोऽयं भवति पुनरसौ वायुकालस्त्रिभोनः ॥ ३ ॥ घटिकामण्डले यत्र स्पृष्टं तन्नतमण्डलम् । तत्प्रदेशो वायुकालो नतकालः स चोच्यते ॥ ४ ॥ सर्वेषामपि सध्या महाच्छायैव दोःप्रभा । काललग्नं निराश्चूनं नतकालस्तदा भवेत् ॥ ५ ॥ नतकालभुजाक्रान्ति व्यस्तदिक्कं प्रकल्प्य ताम् । स्फुटापक्रमकोटिन स्फुटक्रान्तिगुणे पुनः ॥ ६ ॥ परमक्रान्तिकोटिने कृत्वा तस्मात् त्रिजीवया । लब्धो भवति विक्षेपस्तरकोटिं च समानयेत् ॥ ७ ॥ भूयः क्षेपगुणं स्फुटापमगुणे कृत्वामुना ताडिता दोर्ज्यासत्रिभवायुकालजनिता विक्षेपकोट्याहृता । अन्त्यक्रान्तिशराहता परमया कान्त्या हृता चापिता स्वर्ण तुल्यभिदा शघातवशतः स्याद्वायुकालस्फुटः [॥ ८ ॥ यद्वा स्वमध्याह्नगकाललभे कृतासुलिप्ताविवरे स्वदोर्ज्याम् । क्षेपान्तिम क्रान्तिवधेन हत्वा तरकोटिघातेन विभज्य लब्धम् ॥ ९ ॥ चापीकृतं च स्वमृणं प्रकुर्याद विक्षेपदोर्ज्या हरिदैक्य भेदात् । ३५